श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम्
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ २६ ॥
यतो यतः यस्माद्यस्मात् निमित्तात् शब्दादेः निश्चरति निर्गच्छति स्वभावदोषात् मनः चञ्चलम् अत्यर्थं चलम् , अत एव अस्थिरम् , ततस्ततः तस्मात्तस्मात् शब्दादेः निमित्तात् नियम्य तत्तन्निमित्तं याथात्म्यनिरूपणेन आभासीकृत्य वैराग्यभावनया एतत् मनः आत्मन्येव वशं नयेत् आत्मवश्यतामापादयेत्एवं योगाभ्यासबलात् योगिनः आत्मन्येव प्रशाम्यति मनः ॥ २६ ॥

शब्दादेः मनसो नियमनं कथम् ? इत्याशङ्क्य, आह -

तत्तन्निमित्तमिति ।

याथात्म्यनिरूपणम् - क्षयिष्णुत्वदुःखसंमिश्रत्वाद्यालोचनम् , तेन तत्र तत्र वैराग्यभावनया तत्तत् आभासीकृत्य ततस्ततो नियम्य एतन्मनः, इति सम्बन्धः ।

मनोवशीकरणेन उपशमे किं स्यात् ? इत्याह -

एवमिति ।

योगाभ्यासः - विषयविवेकद्वारा मनोनिग्रहाद्व्यावृत्तिः, प्रशान्तम् - आत्मन्येव प्रलीनम् , इति यावत्

॥ २६ ॥