श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तत्र एवमात्मसंस्थं मनः कर्तुं प्रवृत्तो योगी

ननु  मनसः शब्दादिनिमित्तानुरोधेन रागद्वेषवशात् अत्यन्तचञ्चलस्य अस्थिरस्य तत्र तत्र स्वभावेन प्रवृत्तस्य कुतो नैश्चल्यं नैश्चिन्त्यं च ? इति, तत्र आह -

तत्रेति ।

योगप्रारम्भः सप्तम्यर्थः । एवं शब्देन  ‘मनसैव’ इत्यादिः उक्तप्रकारो गृह्यते । स्वाभाविको दोषो मिथ्याज्ञानाधीनो रागादिः ।