श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम्
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ २७ ॥
प्रशान्तमनसं प्रकर्षेण शान्तं मनः यस्य सः प्रशान्तमनाः तं प्रशान्तमनसं हि एनं योगिनं सुखम् उत्तमं निरतिशयम् उपैति उपगच्छति शान्तरजसं प्रक्षीणमोहादिक्लेशरजसमित्यर्थः, ब्रह्मभूतं जीवन्मुक्तम् , ‘ब्रह्मैव सर्वम्इत्येवं निश्चयवन्तं ब्रह्मभूतम् अकल्मषं धर्माधर्मादिवर्जितम् ॥ २७ ॥

मनस्तद्वृत्त्योः अभावे स्वरूपभूतसुखाविर्भावस्य स्वापादौ प्रसिद्धिं द्योतयितुं ‘हि ‘शब्दः । मोहादिक्लेशप्रतिबन्धात् योगिनि यथोक्तसुखाप्राप्तिम् आशङ्क्य, मनोविलयम् उपेत्य परिहरति -

शान्तेति ।

तस्य अस्मदादिविलक्षणत्वम् आह -

ब्रह्मभूतमिति ।

अस्मदादेरपि स्वतो ब्रह्मभूतत्वेन तुल्यं जीवन्मुक्तत्वम् , इत्याशङ्क्य, आह -

ब्रह्मैवेति ।

धर्माधर्मप्रतिबन्धात् अयुक्ता यथोक्तसुखप्रप्तिः, इत्याशङ्क्य उक्तम् -

अकल्मषमिति

॥ २७ ॥