श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ २८ ॥
युञ्जन् एवं यथोक्तेन क्रमेण योगी योगान्तरायवर्जितः सदा सर्वदा आत्मानं विगतकल्मषः विगतपापः, सुखेन अनायासेन ब्रह्मसंस्पर्शं ब्रह्मणा परेण संस्पर्शो यस्य तत् ब्रह्मसंस्पर्शं सुखम् अत्यन्तम् अन्तमतीत्य वर्तत इत्यत्यन्तम् उत्कृष्टं निरतिशयम् अश्नुते व्याप्नोति ॥ २८ ॥

उत्तमं सुखं योगिनो भवति इत्युक्तम् , तदेव स्फुटयति -

युञ्जन्निति ।

क्रमः यथोक्तो ‘मनसैवेन्द्रियग्रामम् ‘ इत्यादिः । योगान्तरायः - रागद्वेषादिः, सदा आत्मानं युञ्जन्निति सम्बन्धः । पापपदं उपलक्षणं पुण्यस्यापि । संस्पर्शः - तादात्म्यम् ऐकरस्यम् । उत्कर्षः - विषयासंस्पर्शः

॥ २८ ॥