श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ २९ ॥
सर्वभूतस्थं सर्वेषु भूतेषु स्थितं स्वम् आत्मानं सर्वभूतानि आत्मनि ब्रह्मादीनि स्तम्बपर्यन्तानि सर्वभूतानि आत्मनि एकतां गतानि ईक्षते पश्यति योगयुक्तात्मा समाहितान्तःकरणः सर्वत्र समदर्शनः सर्वेषु ब्रह्मादिस्थावरान्तेषु विषमेषु सर्वभूतेषु समं निर्विशेषं ब्रह्मात्मैकत्वविषयं दर्शनं ज्ञानं यस्य सर्वत्र समदर्शनः ॥ २९ ॥

सर्वभूतान्यपि तद्विशेषणत्वेन पश्यति चेत् न शुद्धवस्तुज्ञानमिति न अविद्यानिवृत्तिः,  इत्याशङ्क्य, आह -

सर्वभूतानीति ।

उक्ते दर्शने चित्तसमाधानम् उपायन्दर्शयति -

योगेति ।

विषमेषु उपाधिषु तदनुरोधात् विषममेव दर्शनं तदुपदर्शितदर्शनप्रतिबन्धकं प्रत्युदस्यति -

सर्वत्रेति

॥ २९ ॥