श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यो मां पश्यति सर्वत्र सर्वं मयि पश्यति
तस्याहं प्रणश्यामि मे प्रणश्यति ॥ ३० ॥
यो मां पश्यति वासुदेवं सर्वस्य आत्मानं सर्वत्र सर्वेषु भूतेषु सर्वं च ब्रह्मादिभूतजातं मयि सर्वात्मनि पश्यति, तस्य एवं आत्मैकत्वदर्शिनः अहम् ईश्वरो न प्रणश्यामि न परोक्षतां गमिष्यामि । स च मे न प्रणश्यति स च विद्वान् मम वासुदेवस्य न प्रणश्यति न परोक्षो भवति, तस्य च मम च एकात्मकत्वात् ; स्वात्मा हि नाम आत्मनः प्रिय एव भवति, यस्माच्च अहमेव सर्वात्मैकत्वदर्शी ॥ ३० ॥

तत्र एकत्वदर्शनम् अनुवदति -

यो मामिति ।

तत्फलम् इदानीम्  उपन्यस्यति -

तस्येति ।

ज्ञानानुवादभागं विभजते -

यो मामिति ।

तत्फलोक्तिभागं व्याचष्टे -

तस्यैवमिति ।

अनेकत्वदर्शिनोऽपि ईश्वरो नित्यत्वात् न प्रणश्यति, इत्याशङ्क्य आह -

नेति ।

अहम् परमानन्दः, न तं प्रति परोक्षो भवामि, इत्यर्थः ।

 ‘स च’ इत्यादि व्याचष्टे -

विद्वानिति ।

विद्वानिव अविद्वानपि ईश्वरस्य न नश्यति, इत्याशङ्क्य, उक्तम् -

नेत्यादिना ।

अविदुषश्च स्वरूपेण सतोऽपि व्यवहितत्वात् अविद्यया, नष्टप्रायता इत्यर्थः ।

ईश्वरस्य विदुषश्च परस्परम् अपरोक्षत्वे हेतुम् आह -

तस्य चेति ।

आत्मैकत्वेऽपि कथं मिथोऽपरोक्षत्वम् , तत्र आह -

स्वात्मेति ।

विद्वदीश्वरयोः एकत्वानुवादेन विद्याफलं विवृणोति -

यस्माच्चेति ।

तस्मात् एकत्वदर्शनार्थं प्रयतितव्यम् , इति शेषः

॥ ३० ॥