तत्र एकत्वदर्शनम् अनुवदति -
यो मामिति ।
तत्फलम् इदानीम् उपन्यस्यति -
तस्येति ।
ज्ञानानुवादभागं विभजते -
यो मामिति ।
तत्फलोक्तिभागं व्याचष्टे -
तस्यैवमिति ।
अनेकत्वदर्शिनोऽपि ईश्वरो नित्यत्वात् न प्रणश्यति, इत्याशङ्क्य आह -
नेति ।
अहम् परमानन्दः, न तं प्रति परोक्षो भवामि, इत्यर्थः ।
‘स च’ इत्यादि व्याचष्टे -
विद्वानिति ।
विद्वानिव अविद्वानपि ईश्वरस्य न नश्यति, इत्याशङ्क्य, उक्तम् -
नेत्यादिना ।
अविदुषश्च स्वरूपेण सतोऽपि व्यवहितत्वात् अविद्यया, नष्टप्रायता इत्यर्थः ।
ईश्वरस्य विदुषश्च परस्परम् अपरोक्षत्वे हेतुम् आह -
तस्य चेति ।
आत्मैकत्वेऽपि कथं मिथोऽपरोक्षत्वम् , तत्र आह -
स्वात्मेति ।
विद्वदीश्वरयोः एकत्वानुवादेन विद्याफलं विवृणोति -
यस्माच्चेति ।
तस्मात् एकत्वदर्शनार्थं प्रयतितव्यम् , इति शेषः
॥ ३० ॥