श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यो मां पश्यति सर्वत्र सर्वं मयि पश्यति
तस्याहं प्रणश्यामि मे प्रणश्यति ॥ ३० ॥
यो मां पश्यति वासुदेवं सर्वस्य आत्मानं सर्वत्र सर्वेषु भूतेषु सर्वं ब्रह्मादिभूतजातं मयि सर्वात्मनि पश्यति, तस्य एवं आत्मैकत्वदर्शिनः अहम् ईश्वरो प्रणश्यामि परोक्षतां गमिष्यामि मे प्रणश्यति विद्वान् मम वासुदेवस्य प्रणश्यति परोक्षो भवति, तस्य मम एकात्मकत्वात् ; स्वात्मा हि नाम आत्मनः प्रिय एव भवति, यस्माच्च अहमेव सर्वात्मैकत्वदर्शी ॥ ३० ॥

तत्र एकत्वदर्शनम् अनुवदति -

यो मामिति ।

तत्फलम् इदानीम्  उपन्यस्यति -

तस्येति ।

ज्ञानानुवादभागं विभजते -

यो मामिति ।

तत्फलोक्तिभागं व्याचष्टे -

तस्यैवमिति ।

अनेकत्वदर्शिनोऽपि ईश्वरो नित्यत्वात् न प्रणश्यति, इत्याशङ्क्य आह -

नेति ।

अहम् परमानन्दः, न तं प्रति परोक्षो भवामि, इत्यर्थः ।

 ‘स च’ इत्यादि व्याचष्टे -

विद्वानिति ।

विद्वानिव अविद्वानपि ईश्वरस्य न नश्यति, इत्याशङ्क्य, उक्तम् -

नेत्यादिना ।

अविदुषश्च स्वरूपेण सतोऽपि व्यवहितत्वात् अविद्यया, नष्टप्रायता इत्यर्थः ।

ईश्वरस्य विदुषश्च परस्परम् अपरोक्षत्वे हेतुम् आह -

तस्य चेति ।

आत्मैकत्वेऽपि कथं मिथोऽपरोक्षत्वम् , तत्र आह -

स्वात्मेति ।

विद्वदीश्वरयोः एकत्वानुवादेन विद्याफलं विवृणोति -

यस्माच्चेति ।

तस्मात् एकत्वदर्शनार्थं प्रयतितव्यम् , इति शेषः

॥ ३० ॥