श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः
सर्वथा वर्तमानोऽपि योगी मयि वर्तते ॥ ३१ ॥
सर्वथा सर्वप्रकारैः वर्तमानोऽपि सम्यग्दर्शी योगी मयि वैष्णवे परमे पदे वर्तते, नित्यमुक्त एव सः, मोक्षं प्रति केनचित् प्रतिबध्यते इत्यर्थः ॥ ३१ ॥

रागादिरहितस्य यमनियमादिसंस्कारवतः स्वैरप्रवृत्त्यसम्भवेऽपि, ताम् अङ्गीकृत्य ज्ञानं स्तौति -

सर्वथेति ।

प्रतिभासतोऽपि यथेष्टचेष्टाऽङ्गीकारे कुतो ज्ञानवतो नित्यमुक्तत्वम् , प्रातीतिकदुराचारप्रतिबन्धात् , इत्याशङ्क्य, आह -

न मोक्षमिति

॥ ३१ ॥