श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन
सुखं वा यदि वा दुःखं योगी परमो मतः ॥ ३२ ॥
आत्मौपम्येन आत्मा स्वयमेव उपमीयते अनया इत्युपमा तस्या उपमाया भावः औपम्यं तेन आत्मौपम्येन, सर्वत्र सर्वभूतेषु समं तुल्यं पश्यति यः अर्जुन, किं समं पश्यति इत्युच्यतेयथा मम सुखम् इष्टं तथा सर्वप्राणिनां सुखम् अनुकूलम्वाशब्दः चार्थेयदि वा यच्च दुःखं मम प्रतिकूलम् अनिष्टं यथा तथा सर्वप्राणिनां दुःखम् अनिष्टं प्रतिकूलं इत्येवम् आत्मौपम्येन सुखदुःखे अनुकूलप्रतिकूले तुल्यतया सर्वभूतेषु समं पश्यति, कस्यचित् प्रतिकूलमाचरति, अहिंसक इत्यर्थःयः एवमहिंसकः सम्यग्दर्शननिष्ठः योगी परमः उत्कृष्टः मतः अभिप्रेतः सर्वयोगिनां मध्ये ॥ ३२ ॥

उपमेव - औपम्यम् , आत्मा च तत् औपम्यञ्च, तेन । सर्वभूतेषु यः समं पश्यति इत्युक्ते तदेव समदर्शनं प्रश्नपूर्वकं विवृणोति -

किमित्यादिना ।

विकल्पार्थत्वं वारयति -

वाशब्द इति ।

उपदर्शितसमदर्शनफलम् अभिलषति -

न कस्यचिदिति ।

किमपेक्षया तस्य परमत्वम् ? तत्र आह -

सर्वेति

॥ ३२ ॥