श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन
सुखं वा यदि वा दुःखं योगी परमो मतः ॥ ३२ ॥
किञ्च अन्यत् —

स्वैराचरणस्य अप्रतिबन्धकत्वकथनात् परपीडनस्य योगिनः सम्यग्दर्शनं प्रति अप्रतिबन्धकत्वप्रसक्तौ उक्तम् -  

किञ्चेति ।

अन्यदपि कि़ञ्चित् उच्यते परमयोगिनो निर्देशद्वारा योगमाहात्म्यम् , इत्यर्थः ।