चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् ।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ ३४ ॥
चञ्चलं हि मनः । कृष्ण इति कृषतेः विलेखनार्थस्य रूपम् । भक्तजनपापादिदोषाकर्षणात् कृष्णः, तस्य सम्बुद्धिः हे कृष्ण । हि यस्मात् मनः चञ्चलं न केवलमत्यर्थं चञ्चलम् , प्रमाथि च प्रमथनशीलम् , प्रमथ्नाति शरीरम् इन्द्रियाणि च विक्षिपत् सत् परवशीकरोति । किञ्च — बलवत् प्रबलम् , न केनचित् नियन्तुं शक्यम् , दुर्निवारत्वात् । किञ्च — दृढं तन्तुनागवत् अच्छेद्यम् । तस्य एवंभूतस्य मनसः अहं निग्रहं निरोधं मन्ये वायोरिव यथा वायोः दुष्करो निग्रहः ततोऽपि दुष्करं मन्ये इत्यभिप्रायः ॥ ३४ ॥