श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम्
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ ३४ ॥
चञ्चलं हि मनःकृष्ण इति कृषतेः विलेखनार्थस्य रूपम्भक्तजनपापादिदोषाकर्षणात् कृष्णः, तस्य सम्बुद्धिः हे कृष्णहि यस्मात् मनः चञ्चलं केवलमत्यर्थं चञ्चलम् , प्रमाथि प्रमथनशीलम् , प्रमथ्नाति शरीरम् इन्द्रियाणि विक्षिपत् सत् परवशीकरोतिकिञ्चबलवत् प्रबलम् , केनचित् नियन्तुं शक्यम् , दुर्निवारत्वात्किञ्चदृढं तन्तुनागवत् अच्छेद्यम्तस्य एवंभूतस्य मनसः अहं निग्रहं निरोधं मन्ये वायोरिव यथा वायोः दुष्करो निग्रहः ततोऽपि दुष्करं मन्ये इत्यभिप्रायः ॥ ३४ ॥

कृष्णपदपरिनिष्पत्तिप्रकारं सूटयति -

कृष्ण इतीति ।

कथं कर्षकत्वं आप्तकामस्य भगवतः सम्भवति इत्याशङ्क्य आह -

भक्तेति ।

ऐहिकामुष्मिकसर्वसम्पदां आकर्षणशीलत्वाच्च इति द्रष्टव्यम् ।

प्रमथ्नाति क्षोभयति । तदेव क्षोभकत्वं प्रकटयति -

विक्षिपतीति ।

दुर्निवारत्वं अभिप्रेतात् विषयात् आक्रष्टुं अशक्यत्वं विशेषणान्तरमाह - किञ्चेति । अवच्छेद्यत्वं विशेषणान्तरमाह -

किञ्च दृढम् इति ।

तन्तुनागः वरुणपाशशब्दितः जलचारी पदार्थः अत्यन्तदृढतया छेत्तुमशक्यत्वेन प्रसिद्धः विवक्षितः ।

वायोरित्युक्तं व्यनक्ति -

यथेति

॥ ३४ ॥