कुत्र संशयराहित्यम् ? तत्र आह -
मन इति ।
कथं तर्हि मनोनिरोधो भवति, तत्र आह -
किन्तु इति ।
अभ्यासस्वरूपं सामान्येन निदर्शयति -
अभ्यासो नामेति ।
कस्याञ्चित् चित्तभूमौ इति अविशेषितः ध्येयो विषयो निर्दिश्यते, समानप्रत्ययावृत्तिः विजातीयप्रत्ययानन्तरिता इति शेषः । चित्तस्येति षष्ठी प्रत्ययस्य तद्विकारत्वद्योतनार्था ।
वैराग्यस्वरूपं निरूपयति -
वैराग्यमिति ।
तेषु वैतृष्ण्यं वैराग्यं नाम, इति सम्बन्धः ।
तत्र हेतुं सूचयति -
दोषेति ।
विषयेषुतृष्णाविषयेषु दोषदर्शनम् अभ्यस्यते । तेन वैतृष्ण्यं जायते ।
तेन निगृह्यमाणं निर्दिशति -
विक्षेपेति ।
तस्मिन् गृहीते - निरुद्धे मनोनिरोधेऽस्य किं स्यात् ? इत्यपेक्षायाम् आह -
एवमिति ।
अभ्यासहेतुकवैराग्यद्वारा चित्तप्रचारनिरोधे निरुद्धवृत्तिकं मनोविषयविमुखम् अन्तर्निष्ठं भवति, इत्यर्थः
॥ ३५ ॥