श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच —
असंशयं महाबाहो मनो दुर्निग्रहं चलम्
अभ्यासेन तु कौन्तेय वैराग्येण गृह्यते ॥ ३५ ॥
असंशयं नास्ति संशयःमनो दुर्निग्रहं चलम्इत्यत्र हे महाबाहोकिन्तु अभ्यासेन तु अभ्यासो नाम चित्तभूमौ कस्याञ्चित् समानप्रत्ययावृत्तिः चित्तस्यवैराग्येण वैराग्यं नाम दृष्टादृष्टेष्टभोगेषु दोषदर्शनाभ्यासात् वैतृष्ण्यम्तेन वैराग्येण गृह्यते विक्षेपरूपः प्रचारः चित्तस्यएवं तत् मनः गृह्यते निगृह्यते निरुध्यते इत्यर्थः ॥ ३५ ॥

कुत्र संशयराहित्यम् ? तत्र आह -

मन इति ।

कथं तर्हि मनोनिरोधो भवति, तत्र आह -

किन्तु इति ।

अभ्यासस्वरूपं सामान्येन निदर्शयति -

अभ्यासो नामेति ।

कस्याञ्चित् चित्तभूमौ इति अविशेषितः ध्येयो विषयो निर्दिश्यते, समानप्रत्ययावृत्तिः विजातीयप्रत्ययानन्तरिता इति शेषः । चित्तस्येति षष्ठी प्रत्ययस्य तद्विकारत्वद्योतनार्था ।

वैराग्यस्वरूपं निरूपयति -

वैराग्यमिति ।

तेषु वैतृष्ण्यं वैराग्यं नाम, इति सम्बन्धः ।

तत्र हेतुं सूचयति -

दोषेति ।

विषयेषुतृष्णाविषयेषु दोषदर्शनम् अभ्यस्यते । तेन वैतृष्ण्यं जायते ।

तेन निगृह्यमाणं निर्दिशति -

विक्षेपेति ।

तस्मिन् गृहीते - निरुद्धे मनोनिरोधेऽस्य किं स्यात् ? इत्यपेक्षायाम् आह -

एवमिति ।

अभ्यासहेतुकवैराग्यद्वारा चित्तप्रचारनिरोधे निरुद्धवृत्तिकं मनोविषयविमुखम् अन्तर्निष्ठं भवति, इत्यर्थः

॥ ३५ ॥