श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
असंयतात्मना योगो दुष्प्राप इति मे मतिः
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥ ३६ ॥
असंयतात्मना अभ्यासवैराग्याभ्यामसंयतः आत्मा अन्तःकरणं यस्य सोऽयम् असंयतात्मा तेन असंयतात्मना योगो दुष्प्रापः दुःखेन प्राप्यत इति मे मतिःयस्तु पुनः वश्यात्मा अभ्यासवैराग्याभ्यां वश्यत्वमापादितः आत्मा मनः यस्य सोऽयं वश्यात्मा तेन वश्यात्मना तु यतता भूयोऽपि प्रयत्नं कुर्वता शक्यः अवाप्तुं योगः उपायतः यथोक्तादुपायात् ॥ ३६ ॥

व्यतिरेकोपन्यासपरं पूर्वार्धम् अनूद्य व्याकरोति - असंयतेति । पूर्वोक्तान्वयव्याख्यानपरम् उत्तरार्धं व्याचष्टे -

यस्त्वित्यादिना ।

अन्तःकरणस्य स्ववशत्वे सिद्धेऽपि वैराग्यादौ आस्थावता भवितव्यम् , इत्याह -

यततेति ।

उपायो वैराग्यादिपूर्वको मनोनिरोधः

॥ ३६ ॥