श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
एतन्मे संशयं कृष्ण च्छेत्तुमर्हस्यशेषतः
त्वदन्यः संशयस्यास्य च्छेत्ता ह्युपपद्यते ॥ ३९ ॥
एतत् मे मम संशयं कृष्ण च्छेत्तुम् अपनेतुम् अर्हसि अशेषतःत्वदन्यः त्वत्तः अन्यः ऋषिः देवो वा च्छेत्ता नाशयिता संशयस्य अस्य हि यस्मात् उपपद्यते सम्भवतिअतः त्वमेव च्छेत्तुमर्हसि इत्यर्थः ॥ ३९ ॥

यथोपदर्शितसंशयापाकरणार्थम् अर्जुनो भगवन्तं प्रेरयन् आह -

एतदिति ।

मत्तोऽन्यः कश्चित् ऋषिर्वा देवो वा त्वदीयं संशयं छेत्स्यति इत्याशङ्क्य, आह -

त्वदन्य इति ।

अन्यस्य संशयछेत्तुः अभावे फलितम् आह -

अत इति ।

॥  ३९ ॥