योगिनो नाशाशङ्कां परिहरन् उत्तरम् आह -
भगवानिति ।
यदुक्तम् उभयभ्रष्टो योगी नश्यति, इति, तत्र आह -
पार्थेति ।
तत्र हेतुम् आह -
नहीति ।
योगिनो मार्गद्वयात् विभ्रष्टस्य ऐहिको नाशः - शिष्टगर्हालक्षणो न भवतीति श्रद्धादेः सद्भावात् , तथापि कथम् आमुष्मिकनाशशून्यत्वम् ? इत्याशङ्क्य, तद्रूपनिरूपणपूर्वकं तदभावं प्रतिजानीते -
नाशो नामेति ।
तत्र हेतुभागं विभजते -
नहीत्यादिना ।
उभयभ्रष्टस्यापि श्रद्धेन्द्रियसंयमादेः सामिकृतश्रवणादेश्च भावात् उपपन्नं शुभकृत्त्वम् ।
तातेति कथं पुत्रस्थानीयशिष्यः सम्बोध्यते ? पितुरेव तातशब्दत्वात् , इत्याशङ्क्य, आह -
तनोतीति ।
तेन पुत्रस्थानीयस्य शिष्यस्य तातेति सम्बोधनम् अविरुद्धम् , इत्यर्थः । न गच्छति कुत्सितां गतिम् , कल्याणकारित्वात् , इति नाशाभावः
॥ ४० ॥