श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते
हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ॥ ४० ॥
हे पार्थ नैव इह लोके नामुत्र परस्मिन् वा लोके विनाशः तस्य विद्यते नास्तिनाशो नाम पूर्वस्मात् हीनजन्मप्राप्तिः योगभ्रष्टस्य नास्ति हि यस्मात् कल्याणकृत् शुभकृत् कश्चित् दुर्गतिं कुत्सितां गतिं हे तात, तनोति आत्मानं पुत्ररूपेणेति पिता तात उच्यतेपितैव पुत्र इति पुत्रोऽपि तात उच्यतेशिष्योऽपि पुत्र उच्यतेयतो गच्छति ॥ ४० ॥

योगिनो नाशाशङ्कां परिहरन् उत्तरम् आह - 

भगवानिति ।

यदुक्तम् उभयभ्रष्टो योगी नश्यति, इति, तत्र आह -

पार्थेति ।

तत्र हेतुम् आह -

नहीति ।

योगिनो मार्गद्वयात् विभ्रष्टस्य ऐहिको नाशः - शिष्टगर्हालक्षणो न भवतीति श्रद्धादेः सद्भावात् , तथापि कथम् आमुष्मिकनाशशून्यत्वम् ? इत्याशङ्क्य, तद्रूपनिरूपणपूर्वकं तदभावं प्रतिजानीते -

नाशो नामेति ।

तत्र हेतुभागं विभजते -

नहीत्यादिना ।

उभयभ्रष्टस्यापि श्रद्धेन्द्रियसंयमादेः सामिकृतश्रवणादेश्च भावात् उपपन्नं शुभकृत्त्वम् ।

तातेति कथं पुत्रस्थानीयशिष्यः सम्बोध्यते ? पितुरेव तातशब्दत्वात् , इत्याशङ्क्य, आह -

तनोतीति ।

तेन पुत्रस्थानीयस्य शिष्यस्य तातेति सम्बोधनम् अविरुद्धम् , इत्यर्थः । न गच्छति कुत्सितां गतिम् , कल्याणकारित्वात् , इति नाशाभावः

॥ ४० ॥