श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ ४१ ॥
योगमार्गे प्रवृत्तः संन्यासी सामर्थ्यात् प्राप्य गत्वा पुण्यकृताम् अश्वमेधादियाजिनां लोकान् , तत्र उषित्वा वासमनुभूय शाश्वतीः नित्याः समाः संवत्सरान् , तद्भोगक्षये शुचीनां यथोक्तकारिणां श्रीमतां विभूतिमतां गेहे गृहे योगभ्रष्टः अभिजायते ॥ ४१ ॥

तत्र श्लोकेन उत्तरम् आह -

प्राप्येति ।

कथं संन्यासी इति विशेष्यते ? तत्त्र आह -

सामर्थ्यादिति ।

कर्मणि व्यापृतस्य कर्मिणो योगमार्गप्रवृत्त्यनुपपत्तेः, तत्प्रवृत्तावपि फलाभिलाषविकलस्य ईश्वरे समर्पितसर्वकर्मणः तद्भ्रंशाशङ्कानवकाशात् , इत्यर्थः । समानां नित्यत्वं मानुषसमाविलक्षणत्वम् । वैराग्याभावविवक्षया विभूतिमतां गृहे जन्म, इति विशिष्यते

॥ ४१ ॥