श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अथवा योगिनामेव कुले भवति धीमताम्
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ ४२ ॥
अथवा श्रीमतां कुलात् अन्यस्मिन् योगिनामेव दरिद्राणां कुले भवति जायते धीमतां बुद्धिमताम्एतत् हि जन्म, यत् दरिद्राणां योगिनां कुले, दुर्लभतरं दुःखलभ्यतरं पूर्वमपेक्ष्य लोके जन्म यत् ईदृशं यथोक्तविशेषणे कुले ॥ ४२ ॥

श्रद्धावैराग्यादिकल्याणाधिक्ये पक्षान्तरम् आह -

अथेति ।

योगिनामिति कर्मिणां ग्रहणं मा भूत्  , इति विशिनष्टि -

धीमतामिति ।

ब्रह्मविद्यावतां शुचीनां दरिद्राणां कुलेजन्म दुर्लभादपि दुर्लभं प्रमादकारणाभावात् , इत्याह -

एतद्धीति ।

किमपेक्ष्य अस्य जन्मनो दुःखलभ्यादपि दुःखलभ्यतरत्वम् ? तदाह -

पूर्वमिति ।

यद्यपि विभूतिमतामपि शुचीनां गृहे जन्म दुःखलभ्यम् , तथापि तदपेक्षया इदं जन्म दुःखलभ्यतरम् , यत् ईदृशं शुचीनां दरिद्राणां विद्यावताम् , इति विशेषणोपेते कुले लोके जन्म वक्ष्यमाणम् , इत्यर्थः

॥ ४२ ॥