श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम्
यतते ततो भूयः संसिद्धौ कुरुनन्दन ॥ ४३ ॥
तत्र योगिनां कुले तं बुद्धिसंयोगं बुद्ध्या संयोगं बुद्धिसंयोगं लभते पौर्वदेहिकं पूर्वस्मिन् देहे भवं पौर्वदेहिकम्यतते प्रयत्नं करोति ततः तस्मात् पूर्वकृतात् संस्कारात् भूयः बहुतरं संसिद्धौ संसिद्धिनिमित्तं हे कुरुनन्दन ॥ ४३ ॥

तर्हि यथोक्तजन्मनि साधनानुष्ठानम् अन्तरेणैव बुद्धिसम्बन्धः स्यात् , इत्याशङ्क्य, आह -

यतते चेति ।

प्रयत्नः श्रवणाद्यनुष्ठानविषयः

॥ ४३ ॥