तत्र कोमुतिकन्यायं सूचयति -
जिज्ञासुरिति ।
पूर्वार्धं विभजते -
यः पूर्वेति ।
तस्मात् , न इच्छया तस्य प्रवृत्तिः, इति शेषः ।
योगभ्रष्टस्य अधर्मादिप्रतिबन्धेऽपि तर्हि पूर्वाभ्यासवशात् बुद्धिसम्बन्धः स्यात् , इत्याशङ्क्य, आह -
नेत्यादिना ।
यदि योगभ्रष्टेन योगाभ्यासजनितसंस्कारप्राबत्यात् प्रबलतराधर्मभेदरूपं कर्म न कृतं स्यात् , तदा तेन संस्कारेण वशीकृतः सन् इच्छादिरहितोऽपि बुद्धिसम्बन्धभाक् भवति इत्यर्थः ।
विपक्षे योगसंस्कारस्य अभिभूतत्वात् न कार्यारम्भकत्वम् , इत्याह -
अधर्मश्चेदिति ।
योगजसंस्कारस्य अधर्माभिभूतस्य कार्यम् अकृत्वैव अभिभावकप्राबल्ये प्रणाशः स्यात् , इत्याशङ्क्य, आह -
तत्क्षयेत्विति ।
कालव्यवधानात् निवृत्तिं शङ्कित्वा उत्कम् -
नेति ।
तृणजलायुकादृष्टान्तश्रुत्या संस्कारस्य दीर्घतायाः समाधिगतत्वात् , इति भावः ।
कॊमुतिकन्यायोक्तिपरम् उत्तरार्धं विभजते -
जिज्ञासुरपीत्यादिना ।
अत्रापि ‘संन्यासी’ इति विशेषणं पूर्ववत् अवधेयम् , इत्याह -
सामर्थ्यादिति ।
न हि कर्मी कर्ममार्गे प्रवृत्तः ततो भ्रष्टः शङ्कितुं शक्यते, अतः संन्यासी पूर्वोक्तैः विशेषणैः विशिष्टो योगभ्रष्टोऽभीष्टः । सोऽपि वैदिकं कर्म तत्फलं च अतिवर्तते, किमुत योगं बुद्ध्वा तन्निष्ठः - सदा अभ्यासं कुर्वन् कर्म तत्फलं च अतिवर्तत इति वक्तव्यम् , इति योजना । योगनिष्ठस्य कर्मतत्फलातिवर्तनं ततोऽधिकफलावाप्तिः विवक्ष्यते
॥ ४४ ॥