श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कथं पूर्वदेहबुद्धिसंयोग इति तदुच्यते
कथं पूर्वदेहबुद्धिसंयोग इति तदुच्यते

यदि पूर्वसंस्कारः अस्य इच्छाम् उपनयन् न प्रवर्तयति, तथा च प्रवृत्तिः अनिच्छया स्यात् , इत्याशङ्क्य आह -

पूर्वेति ।

स हि योगभ्रष्टः समनन्तरजन्मकृतसंस्कारवशात् उत्तरस्मिन् जन्मनि अनिच्छन्नपि योगं प्रत्येव आकृष्टो भवति, इत्यर्थः ।