श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कुतश्च योगित्वं श्रेयः इति

योगनिष्ठस्य श्रेष्ठत्वे हेत्वन्तरं वक्तुम् उत्तरश्लोकम् अवतारयति -

कुतश्चेति ।

मृदुप्रयत्नोऽपि क्रमेण मोक्ष्यते चेत् अधिकप्रयत्नस्य क्लेशहेतोः अकिञ्चित्करत्वम् , इत्याशङ्क्य, हेत्वन्तरमेव प्रकटयति - प्रयत्नादिति । तत्र - योगविषये प्रयत्नातिरेके सति, इत्यर्थः । ततः - सञ्चितसंस्कारसमुदायात् , इति यावत् । समुत्पन्नसम्यग्दर्शनवशात् प्रकृष्टा गतिः संन्यासिना लभ्यते, तेन शीघ्रं मुक्तिम् इच्छन् अधिकप्रयत्नो भवेत् , अल्पप्रयत्नस्तु चिरेणैव मुक्तिभागी, इत्यर्थः

॥ ४५ ॥