श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तपस्विभ्योऽधिको योगी
ज्ञानिभ्योऽपि मतोऽधिकः
कर्मिभ्यश्चाधिको योगी
तस्माद्योगी भवार्जुन ॥ ४६ ॥
तपस्विभ्यः अधिकः योगी, ज्ञानिभ्योऽपि ज्ञानमत्र शास्त्रार्थपाण्डित्यम् , तद्वद्भ्योऽपि मतः ज्ञातः अधिकः श्रेष्ठः इतिकर्मिभ्यः, अग्निहोत्रादि कर्म, तद्वद्भ्यः अधिकः योगी विशिष्टः यस्मात् तस्मात् योगी भव अर्जुन ॥ ४६ ॥

 योगस्य सर्वस्मात् उत्कर्षात् अवश्यकर्तव्यत्वाय योगिनः सर्वाधिक्यं साधयति -

तपस्विभ्य  इति ।

योगिनो ज्ञानिनश्च पर्यायत्वात् कथं तस्य ज्ञानिभ्यः अधिकत्वम् ? इत्याशङ्क्य, आह -

ज्ञानमिति ।

योगिनः सर्वाधिकत्वे फलितम् आह -

तस्मादिति

॥ ४६ ॥