तपस्विभ्योऽधिको योगी
ज्ञानिभ्योऽपि मतोऽधिकः ।
कर्मिभ्यश्चाधिको योगी
तस्माद्योगी भवार्जुन ॥ ४६ ॥
तपस्विभ्यः अधिकः योगी, ज्ञानिभ्योऽपि ज्ञानमत्र शास्त्रार्थपाण्डित्यम् , तद्वद्भ्योऽपि मतः ज्ञातः अधिकः श्रेष्ठः इति । कर्मिभ्यः, अग्निहोत्रादि कर्म, तद्वद्भ्यः अधिकः योगी विशिष्टः यस्मात् तस्मात् योगी भव अर्जुन ॥ ४६ ॥