श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तपस्विभ्योऽधिको योगी
ज्ञानिभ्योऽपि मतोऽधिकः
कर्मिभ्यश्चाधिको योगी
तस्माद्योगी भवार्जुन ॥ ४६ ॥
यस्मादेवं तस्मात् —

सम्यग्ज्ञानद्वारा मोक्षहेतुत्वं योगस्य उक्तम् अनूद्य योगिनः सर्वाधिकत्वम् आह -

यस्मादिति ।