श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना
श्रद्धावान्भजते यो मां मे युक्ततमो मतः ॥ ४७ ॥
योगिनामपि सर्वेषां रुद्रादित्यादिध्यानपराणां मध्ये मद्गतेन मयि वासुदेवे समाहितेन अन्तरात्मना अन्तःकरणेन श्रद्धावान् श्रद्दधानः सन् भजते सेवते यो माम् , मे मम युक्ततमः अतिशयेन युक्तः मतः अभिप्रेतः इति ॥ ४७ ॥

ननु आदित्यो विराडात्मा सूत्रं कारणम् अक्षरम् इत्येषाम् उपासका भूयांसो योगिनो गम्यन्ते, तेषां कतमः श्रेयान् इष्यते ? तत्र आह -

योगिनामिति ।

यो भगवन्तं सगुणं निर्गुणं वा यथोक्तेन चेतसा श्रद्दधानः सन् , अनवरतम् अनुसन्धत्ते स युक्तानां मध्ये अतिशयेन युक्तः - श्रेयान् , ईश्वरस्य अभिप्रेतः, न हि तदीयो अभिप्रायः अन्यथा भवितुम् अर्हति, इत्यर्थः । तदनेन अध्यायेन कर्मयोगस्य संन्यासहेतोः मर्यादां दर्शयता, साङ्गं च योगं विवृण्वता, मनोनिग्रहोपायोपदेशेन योगभ्रष्टस्य आत्यन्तिकनाशशङ्कावकाशं शिथिलयता, त्वम्पदार्थाभिज्ञस्य ज्ञाननिष्ठत्वोक्त्या वाक्यार्थज्ञानात् मुक्तिः, इति साधितम्

॥ ४७ ॥

इति श्रीमत्परमहंस - परिव्राजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानान्दज्ञानविरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने षष्ठोऽध्यायः ॥