श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच —
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ १ ॥
मयि वक्ष्यमाणविशेषणे परमेश्वरे आसक्तं मनः यस्य सः मय्यासक्तमनाः, हे पार्थ योगं युञ्जन् मनःसमाधानं कुर्वन् , मदाश्रयः अहमेव परमेश्वरः आश्रयो यस्य सः मदाश्रयःयो हि कश्चित् पुरुषार्थेन केनचित् अर्थी भवति तत्साधनं कर्म अग्निहोत्रादि तपः दानं वा किञ्चित् आश्रयं प्रतिपद्यते, अयं तु योगी मामेव आश्रयं प्रतिपद्यते, हित्वा अन्यत् साधनान्तरं मय्येव आसक्तमनाः भवतियः त्वं एवंभूतः सन् असंशयं समग्रं समस्तं विभूतिबलशक्त्यैश्वर्यादिगुणसम्पन्नं मां यथा येन प्रकारेण ज्ञास्यसि संशयमन्तरेणएवमेव भगवान्इति, तत् शृणु उच्यमानं मया ॥ १ ॥

परमेश्वरस्य वक्ष्यमाणविशेषणत्वं सकलजगदायतनत्वादिनानाविधविभूतिभागित्वम् , तत्र आसक्तिः - मनसः विषयान्तरपरिहारेण तन्निष्ठत्वम् । मनसः भगवत्येव आसक्तौ हेतुमाह -

योगमिति ।

विषयान्तरपरिहारे हि गोचरम् आलोच्यमाने भगवत्येव प्रतिष्ठितं भवति इत्यर्थः ।

तथापि स्वाश्रये पुरुषः मनः स्थापयति, नान्यत्र, इत्याशङ्क्य, अाह -

मदाश्रय इति ।

योगिनः यद् ईश्वराश्रयत्वेन तस्मिन्नेव आसक्तमनसस्त्वम् उपन्यस्तम् , तद् उपपादयति -

यो हीति ।

ईश्वराख्याश्रयस्य प्रतिपत्तिमेव प्रकटयति -

हित्वेति ।

अस्तु योगिनः त्वदाश्रयप्रतिपत्त्या मनसः त्वय्येव आसक्तिः, तथापि मम किमायातम् ? इत्याशङ्क्य, द्वितीयार्धं व्याचष्टे -

यस्त्वमेवमिति ।

एवंभूतः - यथोक्तध्याननिष्ठपुरुषवदेव मय्यासक्तमनाः यः त्वं, स त्वं तथाविधस्सन् , असंशयम् - अविद्यमानः संशयः यत्र ज्ञाने तद् यथा स्यात् , तथा, मां समग्रं ज्ञास्यसि इति सम्बन्धः ।

समग्रं इत्यस्य अर्थमाह -

समस्तमिति ।

विभूतिः - नानाविधैश्वर्योपायसम्पत्तिः, बलं - शरीरगतं सामर्थ्यम् , शक्तिः - मनोगतं प्रागल्भ्यं, ऐश्वर्यम् - ईशितव्यविषयम् ईशनसामर्थ्यम् , आदिशब्देन ज्ञानेच्छादयः गृह्यन्ते ।

असंशयमिति पदस्य क्रियाविशेषणत्वं विशदयन् क्रियापदेन सम्बन्धं कथयति -

संशयमिति ।

विना संशयं भगवत्तत्त्वपरिज्ञानमेव स्फोरयति -

एवमेवेति ।

भगवत्तत्त्वे ज्ञातव्ये, कथं मम ज्ञानमुदेष्यति? न हि त्वामृते तदुपदेष्टा कश्चिदस्ति, इत्याशङक्य, आह -

तच्छृण्विति

॥ १ ॥