परमेश्वरस्य वक्ष्यमाणविशेषणत्वं सकलजगदायतनत्वादिनानाविधविभूतिभागित्वम् , तत्र आसक्तिः - मनसः विषयान्तरपरिहारेण तन्निष्ठत्वम् । मनसः भगवत्येव आसक्तौ हेतुमाह -
योगमिति ।
विषयान्तरपरिहारे हि गोचरम् आलोच्यमाने भगवत्येव प्रतिष्ठितं भवति इत्यर्थः ।
तथापि स्वाश्रये पुरुषः मनः स्थापयति, नान्यत्र, इत्याशङ्क्य, अाह -
मदाश्रय इति ।
योगिनः यद् ईश्वराश्रयत्वेन तस्मिन्नेव आसक्तमनसस्त्वम् उपन्यस्तम् , तद् उपपादयति -
यो हीति ।
ईश्वराख्याश्रयस्य प्रतिपत्तिमेव प्रकटयति -
हित्वेति ।
अस्तु योगिनः त्वदाश्रयप्रतिपत्त्या मनसः त्वय्येव आसक्तिः, तथापि मम किमायातम् ? इत्याशङ्क्य, द्वितीयार्धं व्याचष्टे -
यस्त्वमेवमिति ।
एवंभूतः - यथोक्तध्याननिष्ठपुरुषवदेव मय्यासक्तमनाः यः त्वं, स त्वं तथाविधस्सन् , असंशयम् - अविद्यमानः संशयः यत्र ज्ञाने तद् यथा स्यात् , तथा, मां समग्रं ज्ञास्यसि इति सम्बन्धः ।
समग्रं इत्यस्य अर्थमाह -
समस्तमिति ।
विभूतिः - नानाविधैश्वर्योपायसम्पत्तिः, बलं - शरीरगतं सामर्थ्यम् , शक्तिः - मनोगतं प्रागल्भ्यं, ऐश्वर्यम् - ईशितव्यविषयम् ईशनसामर्थ्यम् , आदिशब्देन ज्ञानेच्छादयः गृह्यन्ते ।
असंशयमिति पदस्य क्रियाविशेषणत्वं विशदयन् क्रियापदेन सम्बन्धं कथयति -
संशयमिति ।
विना संशयं भगवत्तत्त्वपरिज्ञानमेव स्फोरयति -
एवमेवेति ।
भगवत्तत्त्वे ज्ञातव्ये, कथं मम ज्ञानमुदेष्यति? न हि त्वामृते तदुपदेष्टा कश्चिदस्ति, इत्याशङक्य, आह -
तच्छृण्विति
॥ १ ॥