श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥ २ ॥
ज्ञानं ते तुभ्यम् अहं सविज्ञानं विज्ञानसहितं स्वानुभवयुक्तम् इदं वक्ष्यामि कथयिष्यामि अशेषतः कार्‌त्स्न्येन । तत् ज्ञानं विवक्षितं स्तौति श्रोतुः अभिमुखीकरणाय — यत् ज्ञात्वा यत् ज्ञानं ज्ञात्वा न इह भूयः पुनः अन्यत् ज्ञातव्यं पुरुषार्थसाधनम् अवशिष्यते नावशिष्टं भवति । इति मत्तत्त्वज्ञो यः, सः सर्वज्ञो भवतीत्यर्थः । अतो विशिष्टफलत्वात् दुर्लभं ज्ञानम् ॥ २ ॥

इदं - अपरोक्षं ज्ञानं चैतन्यम् । तस्य सविज्ञानस्य प्रतिलम्भे किं स्यात्? इत्याशङ्क्य, आह -

यज्ज्ञात्वेति ।

इदमा चैतन्यस्य परोक्षत्वं व्यावर्त्यते । तदेव सविज्ञानमिति विशेषणेन स्फुटयति ।

अनवशेषेण तद्वेदनफलोपन्यासेन श्रोतारं तच्छ्रवणप्रवणं करोति -

तद्ज्ञानमिति ।

एकविज्ञानेन सर्वविज्ञानश्रुतिमाश्रित्य उत्तरार्धतात्पर्यमाह -

यद्ज्ञात्वेति ।

भगवत्तत्त्वज्ञानस्य विशिष्टफलत्वमुक्त्वा फलितमाह -

अत इति

॥ २ ॥