श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥ २ ॥
ज्ञानं ते तुभ्यम् अहं सविज्ञानं विज्ञानसहितं स्वानुभवयुक्तम् इदं वक्ष्यामि कथयिष्यामि अशेषतः कार्‌त्स्न्येनतत् ज्ञानं विवक्षितं स्तौति श्रोतुः अभिमुखीकरणाययत् ज्ञात्वा यत् ज्ञानं ज्ञात्वा इह भूयः पुनः अन्यत् ज्ञातव्यं पुरुषार्थसाधनम् अवशिष्यते नावशिष्टं भवतिइति मत्तत्त्वज्ञो यः, सः सर्वज्ञो भवतीत्यर्थःअतो विशिष्टफलत्वात् दुर्लभं ज्ञानम् ॥ २ ॥

इदं - अपरोक्षं ज्ञानं चैतन्यम् । तस्य सविज्ञानस्य प्रतिलम्भे किं स्यात्? इत्याशङ्क्य, आह -

यज्ज्ञात्वेति ।

इदमा चैतन्यस्य परोक्षत्वं व्यावर्त्यते । तदेव सविज्ञानमिति विशेषणेन स्फुटयति ।

अनवशेषेण तद्वेदनफलोपन्यासेन श्रोतारं तच्छ्रवणप्रवणं करोति -

तद्ज्ञानमिति ।

एकविज्ञानेन सर्वविज्ञानश्रुतिमाश्रित्य उत्तरार्धतात्पर्यमाह -

यद्ज्ञात्वेति ।

भगवत्तत्त्वज्ञानस्य विशिष्टफलत्वमुक्त्वा फलितमाह -

अत इति

॥ २ ॥