श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ ३ ॥
मनुष्याणां मध्ये सहस्रेषु अनेकेषु कश्चित् यतति प्रयत्नं करोति सिद्धये सिद्ध्यर्थम्तेषां यततामपि सिद्धानाम् , सिद्धा एव हि ते ये मोक्षाय यतन्ते, तेषां कश्चित् एव हि मां वेत्ति तत्त्वतः यथावत् ॥ ३ ॥

सहस्रशब्दस्य बहुवाचकत्वम् उपेत्य व्याकरोति -

अनेकेष्विति ।

सिद्धये - सत्त्वशुद्धिद्वारा ज्ञानोत्पत्त्यर्थम् इत्यर्थः ।

सिद्ध्यर्थं यतमानानां कथं सिद्धत्त्वम्? इत्याशङ्क्य आह -

सिद्धा एवेति ।

सर्वेषामेव तेषां ज्ञानोदयात् तस्य सुलभत्वम् , इत्याशङ्क्य, आह -

तेषामिति

॥ ३ ॥