श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ४ ॥
भूमिः इति पृथिवीतन्मात्रमुच्यते, न स्थूला, ‘भिन्ना प्रकृतिरष्टधा’ इति वचनात् । तथा अबादयोऽपि तन्मात्राण्येव उच्यन्ते — आपः अनलः वायुः खम् । मनः इति मनसः कारणमहङ्कारो गृह्यते । बुद्धिः इति अहङ्कारकारणं महत्तत्त्वम् । अहङ्कारः इति अविद्यासंयुक्तमव्यक्तम् । यथा विषसंयुक्तमन्नं विषमित्युच्यते, एवमहङ्कारवासनावत् अव्यक्तं मूलकारणमहङ्कार इत्युच्यते, प्रवर्तकत्वात् अहङ्कारस्य । अहङ्कार एव हि सर्वस्य प्रवृत्तिबीजं दृष्टं लोके । इतीयं यथोक्ता प्रकृतिः मे मम ऐश्वरी मायाशक्तिः अष्टधा भिन्ना भेदमागता ॥ ४ ॥

भूमिशब्दस्य व्यवहारयोग्यस्थूलपृथिवीविषयत्वं व्यावर्तयति -

भूमिरितीति ।

तत्र हेतुमाह -

भिन्नेति ।

प्रकृतिसमभिव्याहारात् गन्धतन्मात्रं स्थूलपृथिवीप्रकृतिः, उत्तरविकारो भूमिरिति उच्यते, न विशेष इत्यर्थः ।

भूमिशब्दवत् अबादिशब्दानामपि सूक्ष्मभूतविषयत्वम् आह -

तथेति ।

तेषामपि प्रकृतिसमानाधिकृतत्वाविशेषात् , तन्मात्राणां पूर्वपूर्वप्रकृतीनाम् उत्तरोत्तरविकारणां न विशेषत्वासिद्धिः इत्यर्थः ।

मनःशब्दस्य सङ्कल्पविकल्पात्मककरणविषयत्वम् आशङ्क्य, आह -

मन इतीति ।

न खलु अहङ्काराभावे सङ्कल्पविकल्पयोः असम्भवात् तदात्मकं मनः सम्भवति इत्यर्थः ।

निश्चयलक्षणा बुद्धिः इति अभ्युपगमात् बुद्धिशब्दस्य निश्चयात्मककरणविषयत्वम् आशङ्क्य, आह -

बुद्धिरितीति ।

न हि हिरण्यगर्भसमष्टिबुद्धिरूपम् अन्तरेण व्यष्टिबुद्धिः सिद्ध्यति इत्यर्थः ।

अहङ्कारस्य अभिमानविशेषणात्मकत्वेन अन्तःकरणप्रभेदत्वं व्यावर्तयति -

अहङ्कार इति ।

अविद्यासंयुक्तमिति - अविद्यात्मकम् इत्यर्थः ।

कथं मूलकारणस्य अहङ्कारशब्दत्वम्? इत्याशङ्क्य, उक्तमर्थं दृष्टान्तेन स्पष्टयति -

यथेत्यादिना ।

मूलकारणस्य अहङ्कारशब्दत्वे हेतुमाह -

प्रवर्तकत्वादिति ।

तस्य प्रवर्तकत्वं प्रपञ्चयति -

अहङ्कार एवेति ।

सत्येव अहङ्कारे, ममाकरो भवति, तयोश्च भावे, सर्वा प्रवृत्तिः इति प्रसिद्धम् इत्यर्थः ।

उक्तां प्रकृतिम् उपसंहरति -

इतीयमिति ।

इयमिति अपरोक्षा, साक्षिदृश्या इति यावत् ।

ऐश्वरी तदाश्रया तदैश्वर्योपाधिभूता । प्रक्रियते महदाद्याकारेण इति प्रकृतिः त्रिगुणं जगदुपादानं प्रधानमिति मतं व्युदस्यति -

मायेति ।

तस्याः तत्कार्याकारेण परिणामयोग्यत्वं द्योतयति -

शक्तिरिति ।

अष्टधेति ।

अष्टभिः प्रकारैः इति यावत्

॥ ४ ॥