श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ४ ॥
भूमिः इति पृथिवीतन्मात्रमुच्यते, स्थूला, ‘भिन्ना प्रकृतिरष्टधाइति वचनात्तथा अबादयोऽपि तन्मात्राण्येव उच्यन्तेआपः अनलः वायुः खम्मनः इति मनसः कारणमहङ्कारो गृह्यतेबुद्धिः इति अहङ्कारकारणं महत्तत्त्वम्अहङ्कारः इति अविद्यासंयुक्तमव्यक्तम्यथा विषसंयुक्तमन्नं विषमित्युच्यते, एवमहङ्कारवासनावत् अव्यक्तं मूलकारणमहङ्कार इत्युच्यते, प्रवर्तकत्वात् अहङ्कारस्यअहङ्कार एव हि सर्वस्य प्रवृत्तिबीजं दृष्टं लोकेइतीयं यथोक्ता प्रकृतिः मे मम ऐश्वरी मायाशक्तिः अष्टधा भिन्ना भेदमागता ॥ ४ ॥

भूमिशब्दस्य व्यवहारयोग्यस्थूलपृथिवीविषयत्वं व्यावर्तयति -

भूमिरितीति ।

तत्र हेतुमाह -

भिन्नेति ।

प्रकृतिसमभिव्याहारात् गन्धतन्मात्रं स्थूलपृथिवीप्रकृतिः, उत्तरविकारो भूमिरिति उच्यते, न विशेष इत्यर्थः ।

भूमिशब्दवत् अबादिशब्दानामपि सूक्ष्मभूतविषयत्वम् आह -

तथेति ।

तेषामपि प्रकृतिसमानाधिकृतत्वाविशेषात् , तन्मात्राणां पूर्वपूर्वप्रकृतीनाम् उत्तरोत्तरविकारणां न विशेषत्वासिद्धिः इत्यर्थः ।

मनःशब्दस्य सङ्कल्पविकल्पात्मककरणविषयत्वम् आशङ्क्य, आह -

मन इतीति ।

न खलु अहङ्काराभावे सङ्कल्पविकल्पयोः असम्भवात् तदात्मकं मनः सम्भवति इत्यर्थः ।

निश्चयलक्षणा बुद्धिः इति अभ्युपगमात् बुद्धिशब्दस्य निश्चयात्मककरणविषयत्वम् आशङ्क्य, आह -

बुद्धिरितीति ।

न हि हिरण्यगर्भसमष्टिबुद्धिरूपम् अन्तरेण व्यष्टिबुद्धिः सिद्ध्यति इत्यर्थः ।

अहङ्कारस्य अभिमानविशेषणात्मकत्वेन अन्तःकरणप्रभेदत्वं व्यावर्तयति -

अहङ्कार इति ।

अविद्यासंयुक्तमिति - अविद्यात्मकम् इत्यर्थः ।

कथं मूलकारणस्य अहङ्कारशब्दत्वम्? इत्याशङ्क्य, उक्तमर्थं दृष्टान्तेन स्पष्टयति -

यथेत्यादिना ।

मूलकारणस्य अहङ्कारशब्दत्वे हेतुमाह -

प्रवर्तकत्वादिति ।

तस्य प्रवर्तकत्वं प्रपञ्चयति -

अहङ्कार एवेति ।

सत्येव अहङ्कारे, ममाकरो भवति, तयोश्च भावे, सर्वा प्रवृत्तिः इति प्रसिद्धम् इत्यर्थः ।

उक्तां प्रकृतिम् उपसंहरति -

इतीयमिति ।

इयमिति अपरोक्षा, साक्षिदृश्या इति यावत् ।

ऐश्वरी तदाश्रया तदैश्वर्योपाधिभूता । प्रक्रियते महदाद्याकारेण इति प्रकृतिः त्रिगुणं जगदुपादानं प्रधानमिति मतं व्युदस्यति -

मायेति ।

तस्याः तत्कार्याकारेण परिणामयोग्यत्वं द्योतयति -

शक्तिरिति ।

अष्टधेति ।

अष्टभिः प्रकारैः इति यावत्

॥ ४ ॥