श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रोतारं प्ररोचनेन अभिमुखीकृत्याह

ज्ञानार्थं प्रयत्नस्य, तद्द्वारा ज्ञानलाभस्य, तदुभयद्वारेण मुक्तेश्च, दुर्लभत्वाभिधानस्य श्रोतृप्ररोचनं फलम् , इति मत्वा आह -

श्रोतारमिति ।

आत्मनः सर्वात्मकत्वेन परिपूर्णत्वम् अवतारयन् आदौ अपरां प्रकृतिम् उपन्यस्यति -

आहेति ।