श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ ५ ॥
अपरा न परा निकृष्टा अशुद्धा अनर्थकरी संसारबन्धनात्मिका इयम् । इतः अस्याः यथोक्तायाः तु अन्यां विशुद्धां प्रकृतिं मम आत्मभूतां विद्धि मे परां प्रकृष्टां जीवभूतां क्षेत्रज्ञलक्षणां प्राणधारणनिमित्तभूतां हे महाबाहो, यया प्रकृत्या इदं धार्यते जगत् अन्तः प्रविष्टया ॥ ५ ॥

अचेतनवर्गम् एकीकर्तुं प्रकृतेः अष्टधा परिणामम् अभिधाय, विकारावच्छिन्नकार्यकल्पं चेतनवर्गम् एकीकर्तुं पुरुषस्य चैतन्यस्य अविद्याशक्त्यवच्छिन्नस्यापि प्रकृतित्वं कल्पयितुम् उक्तां प्रकृतिम् अनूद्य दर्शयति -

अपरेति ।

निकृष्टत्वं स्पष्टयति -

अनर्थकरीति ।

अनर्थकत्वमेव स्फोरयति -

संसारेति ।

कथञ्चिदपि अनन्यत्वव्यावृत्यर्थः तुशब्दः । अन्याम् अत्यन्तविलक्षणाम् , इति यावत् ।

अन्यत्वमेव स्पष्टयति -

विशुद्धामिति ।

प्रकृतिशब्दस्य अत्र प्रयुक्तस्य अर्थान्तरम् आह -

ममेति ।

प्रकृष्टत्वमेव भोक्तृत्वेन स्पष्टयति -

जीवभूतामिति ।

प्रकृत्यन्तरात् अस्याः प्रकृतेः अवान्तरविशेषम् आह -

ययेति ।

न हि जीवरहितं जगद् धारयितुम् शक्यम् इत्याशयेन आह -

अन्तरिति

॥ ५ ॥