श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ ५ ॥
अपरा परा निकृष्टा अशुद्धा अनर्थकरी संसारबन्धनात्मिका इयम्इतः अस्याः यथोक्तायाः तु अन्यां विशुद्धां प्रकृतिं मम आत्मभूतां विद्धि मे परां प्रकृष्टां जीवभूतां क्षेत्रज्ञलक्षणां प्राणधारणनिमित्तभूतां हे महाबाहो, यया प्रकृत्या इदं धार्यते जगत् अन्तः प्रविष्टया ॥ ५ ॥

अचेतनवर्गम् एकीकर्तुं प्रकृतेः अष्टधा परिणामम् अभिधाय, विकारावच्छिन्नकार्यकल्पं चेतनवर्गम् एकीकर्तुं पुरुषस्य चैतन्यस्य अविद्याशक्त्यवच्छिन्नस्यापि प्रकृतित्वं कल्पयितुम् उक्तां प्रकृतिम् अनूद्य दर्शयति -

अपरेति ।

निकृष्टत्वं स्पष्टयति -

अनर्थकरीति ।

अनर्थकत्वमेव स्फोरयति -

संसारेति ।

कथञ्चिदपि अनन्यत्वव्यावृत्यर्थः तुशब्दः । अन्याम् अत्यन्तविलक्षणाम् , इति यावत् ।

अन्यत्वमेव स्पष्टयति -

विशुद्धामिति ।

प्रकृतिशब्दस्य अत्र प्रयुक्तस्य अर्थान्तरम् आह -

ममेति ।

प्रकृष्टत्वमेव भोक्तृत्वेन स्पष्टयति -

जीवभूतामिति ।

प्रकृत्यन्तरात् अस्याः प्रकृतेः अवान्तरविशेषम् आह -

ययेति ।

न हि जीवरहितं जगद् धारयितुम् शक्यम् इत्याशयेन आह -

अन्तरिति

॥ ५ ॥