उक्तप्रकृतिद्वये कार्यलिङ्गकम् अनुमानं प्रमाणयति -
एतद्योनीनीति ।
प्रकृतिद्वयस्य जगत्कारणत्वे कथम् ईश्वरस्य जगत्कारणत्वं तदुपगदतम्? इत्याशङ्क्य आह –
अहमिति ।
एतद्योनीनि इत्युक्ते समनन्तरप्रकृतजीवभूतप्रकृतौ एतच्छब्दस्य अव्यवधानात् प्रवृत्तिम् आशङ्क्य, व्याकरोति -
एतदिति ।
सर्वाणि चेतनाचेतनानि, जनिमन्ति इत्यर्थः ।
सर्वभूतकारणत्वेन प्रकृतिद्वयम् अङ्गीकृतं चेत् , कथम् अहमित्याद्युक्तम्? इत्याशङ्क्याह -
यस्मादिति ।
मम प्रकृती - परमेश्वरस्य उपाधितया स्थिते, इत्यर्थः ।
तर्हि, प्रकृतिद्वयं कारणम् ईश्वरश्च, इति जगतः अनेकविधकारणाङ्गीकरणं स्यात् , इत्याशङ्क्य, आह -
प्रकृतीति ।
अपरप्रकृतेः अचेतनत्वात् परप्रकृतेः चेतनत्वेऽपि किञ्चिंज्ञत्वात् ईश्वरस्यैव सर्वकारणत्वं युक्तम् , इत्याह -
सर्वज्ञेति
॥ ६ ॥