श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
एतद्योनीनि भूतानि सर्वाणीत्युपधारय
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ ६ ॥
एतद्योनीनि एते परापरे क्षेत्रक्षेत्रज्ञलक्षणे प्रकृती योनिः येषां भूतानां तानि एतद्योनीनि, भूतानि सर्वाणि इति एवम् उपधारय जानीहियस्मात् मम प्रकृती योनिः कारणं सर्वभूतानाम् , अतः अहं कृत्स्नस्य समस्तस्य जगतः प्रभवः उत्पत्तिः प्रलयः विनाशः तथाप्रकृतिद्वयद्वारेण अहं सर्वज्ञः ईश्वरः जगतः कारणमित्यर्थः ॥ ६ ॥

उक्तप्रकृतिद्वये कार्यलिङ्गकम् अनुमानं प्रमाणयति -

एतद्योनीनीति ।

प्रकृतिद्वयस्य जगत्कारणत्वे कथम् ईश्वरस्य जगत्कारणत्वं तदुपगदतम्? इत्याशङ्क्य आह –

अहमिति ।

एतद्योनीनि इत्युक्ते समनन्तरप्रकृतजीवभूतप्रकृतौ एतच्छब्दस्य अव्यवधानात् प्रवृत्तिम् आशङ्क्य, व्याकरोति -

एतदिति ।

सर्वाणि चेतनाचेतनानि, जनिमन्ति इत्यर्थः ।

सर्वभूतकारणत्वेन प्रकृतिद्वयम् अङ्गीकृतं चेत् , कथम् अहमित्याद्युक्तम्? इत्याशङ्क्याह -

यस्मादिति ।

मम प्रकृती - परमेश्वरस्य उपाधितया स्थिते, इत्यर्थः ।

तर्हि, प्रकृतिद्वयं कारणम् ईश्वरश्च, इति जगतः अनेकविधकारणाङ्गीकरणं स्यात् , इत्याशङ्क्य, आह -

प्रकृतीति ।

अपरप्रकृतेः अचेतनत्वात् परप्रकृतेः चेतनत्वेऽपि किञ्चिंज्ञत्वात् ईश्वरस्यैव सर्वकारणत्वं युक्तम् , इत्याह -

सर्वज्ञेति

॥ ६ ॥