श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ७ ॥
मत्तः परमेश्वरात् परतरम् अन्यत् कारणान्तरं किञ्चित् नास्ति विद्यते, अहमेव जगत्कारणमित्यर्थः, हे धनञ्जययस्मादेवं तस्मात् मयि परमेश्वरे सर्वाणि भूतानि सर्वमिदं जगत् प्रोतं अनुस्यूतम् अनुगतम् अनुविद्धं ग्रथितमित्यर्थ, दीर्घतन्तुषु पटवत् , सूत्रे मणिगणा इव ॥ ७ ॥

नान्यदस्ति परम् , इत्यत्र हेतुम् आह -

मयीति ।

परतरशब्दार्थम् आह -

अन्यदिति ।

स्वातन्त्र्यव्यावृत्त्यर्थम् अन्तरशब्दः ।

निषेधफलं कथयति -

अहमेवेति ।

सर्वजगत्कारणत्वेन सिद्धम् अर्थं द्वीतीयार्धव्याख्यानेन विशदयति -

यस्मादिति ।

अतो (यथा) दीर्घोषु तिर्यक्षु च पटघटितेषु तन्तुषु पटस्य अनुगतिः अवगम्यते, तद्वत् मय्येव अनुगतं जगत् , इत्याह -

दीर्घेति ।

यथा च मणयः सूत्रे अनुस्यूताः तेनैव ध्रियन्ते तदभावे विप्रकीर्यन्ते, तथा मयैव आत्मभूतेन सर्वं व्याप्तं ततो निष्कृष्टं विनष्टमेव स्यात् इति श्लोकोक्तं दृष्टान्तम् आह -

सूत्र इति

॥ ७ ॥