श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ८ ॥
रसः अहम् , अपां यः सारः रसः, तस्मिन् रसभूते मयि आपः प्रोता इत्यर्थःएवं सर्वत्रयथा अहम् अप्सु रसः, एवं प्रभा अस्मि शशिसूर्ययोःप्रणवः ओङ्कारः सर्ववेदेषु, तस्मिन् प्रणवभूते मयि सर्वे वेदाः प्रोताःतथा खे आकाशे शब्दः सारभूतः, तस्मिन् मयि खं प्रोतम्तथा पौरुषं पुरुषस्य भावः पौरुषं यतः पुम्बुद्धिः नृषु, तस्मिन् मयि पुरुषाः प्रोताः ॥ ८ ॥

रसोऽहमिति कथम्?  तत्र आह -

तस्मिन्निति ।

अप्सु यो रसः - सारः, तस्मिन् मयि मधुररसे कारणभूते प्रोताः आप इतिवत् , उत्तरत्र सर्वत्र व्याख्यानं कर्तव्यम् , इत्याह -

एवमिति ।

उक्तम् अर्थं दृष्टान्तं कृत्वा प्रभास्मि इत्यादि व्याचष्टे -

यथेति ।

चन्द्रादित्ययोः या प्रभा, तद्भूते मयि तौ प्रोतौ, इत्यर्थः ।

तत्र वाक्यार्थं कथयति -

तस्मिन्निति ।

प्रणवभूते तस्मिन् वेदानां प्रोतत्ववत् आकाशे यः सारभूतः शब्दः तद्रूपे परमेश्वरे प्रोतम् आकाशम् , इत्याह -

तथेति ।

‘पौरुषं नृषु’ इति भागं पूर्ववत् विभजते -

तथेत्यादिना ।

पुरुषत्वमेव विशदयति -

यत इति ।

पुंस्त्वसामान्यात्मके परस्मिन् ईश्वरे प्रोताः तद्विशेषाः, तदुपादानत्वेन तत्स्वभावत्वात् , इत्यर्थः

॥ ८ ॥