श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
केन केन धर्मेण विशिष्टे त्वयि सर्वमिदं प्रोतमित्युच्यते

अबादीनां रसादिषु प्रोतत्वप्रतीतेः ‘त्वय्येव सर्वं प्रोतम् ‘ इति अयुक्तम् , इति मत्वा पृच्छति -

केनेति ।

तत्र उत्तरम् उत्तरग्रन्थेन दर्शयति -

उच्यत इति ।

सारो मधुरो हेतुः, इति यावत् ।