श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
पुण्यो गन्धः पृथिव्यां
तेजश्चास्मि विभावसौ
जीवनं सर्वभूतेषु
तपश्चास्मि तपस्विषु ॥ ९ ॥
पुण्यः सुरभिः गन्धः पृथिव्यां अहम् , तस्मिन् मयि गन्धभूते पृथिवी प्रोतापुण्यत्वं गन्धस्य स्वभावत एव पृथिव्यां दर्शितम् अबादिषु रसादेः पुण्यत्वोपलक्षणार्थम्अपुण्यत्वं तु गन्धादीनाम् अविद्याधर्माद्यपेक्षं संसारिणां भूतविशेषसंसर्गनिमित्तं भवतितेजश्च दीप्तिश्च अस्मि विभावसौ अग्नौतथा जीवनं सर्वभूतेषु, येन जीवन्ति सर्वाणि भूतानि तत् जीवनम्तपश्च अस्मि तपस्विषु, तस्मिन् तपसि मयि तपस्विनः प्रोताः ॥ ९ ॥

‘मयि सर्वमिदं प्रोतम् ’ [भ.गी.७ - ७] इत्यस्यैव परिमाणार्थं प्रकारान्तरम् आह -

पुण्य इति ।

पृथिव्यां पुण्यशब्दितो यः सुरभिगन्धः, सोऽहमस्मि, इत्यत्र वाक्यार्थं कथयति

तस्मिन्निति ।

कथं पृथिव्यां गन्धस्य पुण्यत्वम्? तत्र आह-

पुण्यत्वमिति ।

यत्तु पृथिव्यां गन्धस्य स्वाभाविकं पुण्यत्वं दर्शितं, तत् अबादिषु रसादेरपि स्वाभाविकपुण्यत्वस्य उपलक्षणार्थं, इत्याह -

पृथिव्यामिति ।

प्रथमोत्पन्नाः पञ्चापि गुणाः पुण्या एव, सिद्धादिभिरेव भोग्यत्वात् , इति भावः ।

कथं तर्हि गन्धादीनाम् अपुण्यत्वप्रतिभानम्? तत्र आह -

अपुण्यत्वं त्विति ।

तदेव स्फुटयति -

संसारिणामिति ।

गन्धादयः स्वकार्यैः भूतैः सह परिणममानाः प्राणिनां पापादिवशात् अपुण्याः सम्पद्यन्ते, इत्यर्थः ।

यच्च अग्नेः तेजः, तद्भूते मयि प्रोतः अग्निः, इत्याह -

तेज इति ।

जीवनभूते च मयि सर्वाणि भूतानि प्रोतानि इत्याह -

तथेति ।

जीवनशब्दार्थं आह -

येनेति ।

अन्नरसेन अमृताख्येन, इत्यर्थः ।

‘तपश्चास्मि’ इत्यादेः तात्पर्यार्थम् आह -

तस्मिन्निति ।

चित्तैकाग्र्यम् अनाशकादि वा तपः, तदात्मनि ईश्वरे प्रोताः तपस्विनः, विशेषणाभावे विशिष्टस्य वस्तुनः अभावात् , इत्यर्थः

॥ ९ ॥