श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम्
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ १० ॥
बीजं प्ररोहकारणं मां विद्धि सर्वभूतानां हे पार्थ सनातनं चिरन्तनम्किञ्च, बुद्धिः विवेकशक्तिः अन्तःकरणस्य बुद्धिमतां विवेकशक्तिमताम् अस्मि, तेजः प्रागल्भ्यं तद्वतां तेजस्विनाम् अहम् ॥ १० ॥

ननु - सर्वाणि भूतानि स्वकारणे प्रोतानि, कथं तेषां त्वयि प्रोतत्वम्? तत्र आह -

बीजमिति ।

बीजान्तरापेक्षया अनवस्थां वारयति -

सनातनमिति ।

चैतन्यस्य अभिव्यञ्जकं तत्वनिश्चयसामर्थ्यं बुद्धिः, तद्वतां या बुद्धिः तद्भूते मयि सर्वे बुद्धिमन्तः प्रोता भवन्ति, इत्याह -

किं चेति ।

प्रागल्भ्यवतां यत् प्रागल्भ्यं तद्भूते मति तद्वन्तः प्रोताः, इत्याह -

तेज इति ।

तद्धि प्रागल्भ्यम् , यत् पराभिभवसामर्थ्यं परैश्च अप्रधृष्यत्वम्

॥ १० ॥