श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
बलं बलवतां चाहं कामरागविवर्जितम्
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ ११ ॥
बलं सामर्थ्यम् ओजो बलवताम् अहम् , तच्च बलं कामरागविवर्जितम् , कामश्च रागश्च कामरागौकामः तृष्णा असंनिकृष्टेषु विषयेषु, रागो रञ्जना प्राप्तेषु विषयेषुताभ्यां कामरागाभ्यां विवर्जितं देहादिधारणमात्रार्थं बलं सत्त्वमहमस्मि ; तु यत्संसारिणां तृष्णारागकारणम्किञ्चधर्माविरुद्धः धर्मेण शास्त्रार्थेन अविरुद्धो यः प्राणिषु भूतेषु कामः, यथा देहधारणमात्राद्यर्थः अशनपानादिविषयः, कामः अस्मि हे भरतर्षभ ॥ ११ ॥

यच्च बलवतां बलम् , तद्भूते मयि तेषां प्रोतत्वम् , इत्याह -

बलमिति ।

काम - क्रोधादिपूर्वकस्यापि बलस्य अनुमतिं वारयति -

तच्चेति ।

कामरागयोः एकार्थत्वम् आशङ्क्य अर्थभेदम् आवेदयति -

कामः - तृष्णा, इत्यादिना ।

विशेषणसामर्थ्यसिद्धं व्यावर्त्य दर्शयति -

न तु इति ।

शास्रार्थाविरुद्धकामभूते मयि तथाविधकामवतां भूतानां प्रोतत्वं विवक्षित्वा, आह -

किं चेति ।

धर्माविरुद्धं कामम् उदाहरति -

यथेति

॥ ११ ॥