बलं बलवतां चाहं कामरागविवर्जितम् ।
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ ११ ॥
बलं सामर्थ्यम् ओजो बलवताम् अहम् , तच्च बलं कामरागविवर्जितम् , कामश्च रागश्च कामरागौ — कामः तृष्णा असंनिकृष्टेषु विषयेषु, रागो रञ्जना प्राप्तेषु विषयेषु — ताभ्यां कामरागाभ्यां विवर्जितं देहादिधारणमात्रार्थं बलं सत्त्वमहमस्मि ; न तु यत्संसारिणां तृष्णारागकारणम् । किञ्च — धर्माविरुद्धः धर्मेण शास्त्रार्थेन अविरुद्धो यः प्राणिषु भूतेषु कामः, यथा देहधारणमात्राद्यर्थः अशनपानादिविषयः, स कामः अस्मि हे भरतर्षभ ॥ ११ ॥