श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ये चैव सात्त्विका भावा राजसास्तमसाश्च ये
मत्त एवेति तान्विद्धि त्वहं तेषु ते मयि ॥ १२ ॥
ये चैव सात्त्विकाः सत्त्वनिर्वृत्ताः भावाः पदार्थाः, राजसाः रजोनिर्वृत्ताः, तामसाः तमोनिर्वृत्ताश्च, ये केचित् प्राणिनां स्वकर्मवशात् जायन्ते भावाः, तान् मत्त एव जायमानान् इति एवं विद्धि सर्वान् समस्तानेवयद्यपि ते मत्तः जायन्ते, तथापि तु अहं तेषु तदधीनः तद्वशः, यथा संसारिणःते पुनः मयि मद्वशाः मदधीनाः ॥ १२ ॥

प्राणिनां त्रैविध्ये हेतुं दर्शयन् वाक्यार्थम् आह -

ये केचिदिति ।

तर्हि पितुरिव पुत्राधीनत्वं त्वत्तः जायमानात् तदधीनत्वं तवापि स्यात् , इति विक्रियावत्त्वदूष्यत्वप्रसक्तिः, इत्याशङ्क्य, आह -

यद्यपीति ।

मम परमार्थत्वात् तेषां कल्पितत्वात् न तदूगुणदोषौ मयि स्याताम् , इत्यार्थः तेषामपि तद्वदेव स्वतन्त्रतासम्भवात् किमिति कल्पितत्वम्? इत्याशङ्क्य, आह -

ते पुनरिति ।

त्रिविधानां भावानां न स्वातन्त्र्यम् , ईश्वरकार्यत्वेन तदधीनत्वात् । तथा च, कल्पितस्य अधिष्ठानसत्तााप्रतीतिभ्याम् एव तद्वत्वात् तन्मात्रत्वसिद्धिः, इत्यर्थः

॥ १२ ॥