श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ये चैव सात्त्विका भावा राजसास्तमसाश्च ये
मत्त एवेति तान्विद्धि त्वहं तेषु ते मयि ॥ १२ ॥
किञ्च —

चिदानन्दयोः अभिव्यञ्जकानां भावानाम् ईश्वरात्मत्वाभिधानात् अन्येषाम् अतदात्मत्वप्राप्तौ उक्तम् -

किञ्चेति ।